२.१.९

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥

अन्वयः

चत्वार: four, पुरुषर्षभा: bull among men, सर्वे एव तु all of them, तस्य his, स्वशरीरात् from his body, निर्वृत्ता: originated, चत्वार: four, बाहव: इव just as arms, इष्टा: dear

Summary

Dasaratha, a bull among men, loved all his four sons equally just as the arms of his own body.

पदच्छेदः

सर्वसर्व (१.३)
एवएव (अव्ययः)
तुतु (अव्ययः)
तस्येष्टाश्तद् (६.१)–इष्ट (√इष् + क्त, १.३)
चत्वारःचतुर् (१.३)
पुरुषर्षभाःपुरुष–ऋषभ (१.३)
स्वशरीराद्स्व–शरीर (५.१)
विनिर्वृत्ताश्विनिर्वृत्त (१.३)
चत्वारचतुर् (१.३)
इवइव (अव्ययः)
बाहवःबाहु (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वतु स्ये ष्टा
श्च त्वा रःपुरुर्ष भाः
स्व री राद्वि नि र्वृ त्ता
श्च त्वा बा वः