२.१०.१२

आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।
यावदावर्तते चक्रं तावती मे वसुंधरा ॥

पदच्छेदः

आत्मनोआत्मन् (६.१)
जीवितेनापिजीवित (३.१)–अपि (अव्ययः)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
यन्यद् (२.१)
मनसेच्छसिमनस् (३.१)–इच्छसि (√इष् लट् म.पु. )
यावद्यावत् (अव्ययः)
आवर्ततेआवर्तते (√आ-वृत् लट् प्र.पु. एक.)
चक्रंचक्र (१.१)
तावतीतावत् (१.१)
मेमद् (६.१)
वसुंधरावसुंधरा (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्म नो जीवि ते नापि
ब्रूहिन्म सेच्छसि
या दार्त ते क्रं
ता ती मे सुं रा