२.१०.१६

एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः ।
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्उक्त (√वच् + क्त, १.१)
तयातद् (३.१)
राजाराजन् (१.१)
प्रिययाप्रिय (३.१)
स्त्रीवशंस्त्री–वश (२.१)
गतःगत (√गम् + क्त, १.१)
ताम्तद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
महातेजाःमहत्–तेजस् (१.१)
कैकेयीम्कैकेयी (२.१)
ईषदुत्स्मितःईषत् (अव्ययः)–उत्स्मित (√उत्-स्मि + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्त या रा जा
प्रि या स्त्री शं तः
तामु वा हा ते जाः
कै के यी मी दुत्स्मि तः