२.१०.१८

भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे ।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥

अन्वयः

भद्रे O gentle lady मे my, एतत् this, हृदयम् heart, अनुमृश्य having touched, उद्धरस्व save, कैकेयि O Kaikeyi, एतत् this, समीक्ष्य after considering, यत् which, साधु as good, मन्यसे you may consider, ब्रूहि you may tell.

Summary

O gentle lady my heart is sinking. Touch my heart and deliver me from distress. O Kaikeyi considering all this, tell me what you think is good.

पदच्छेदः

भद्रेभद्र (८.१)
हृदयम्हृदय (२.१)
अप्य्अपि (अव्ययः)
एतद्एतद् (२.१)
अनुमृश्योद्धरस्वअनुमृश्य (√अनु-मृश् + ल्यप्)–उद्धरस्व (√उत्-हृ लोट् म.पु. )
मेमद् (६.१)
एतत्एतद् (२.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
कैकेयिकैकेयी (८.१)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
यत्यद् (२.१)
साधुसाधु (२.१)
मन्यसेमन्यसे (√मन् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्रेहृ प्ये
नु मृ श्योद्धस्व मे
त्स मीक्ष्य कै केयि
ब्रूहि त्साधुन्य से