२.१०.२५

इति देवी महेष्वासं परिगृह्याभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥

अन्वयः

देवी queen, महेष्वासम् great archer, परिगृह्य having seized, अभिशस्य च having flattered, ततः परम् च afterwards, वरदम् conferer of boons, काममोहितम् infatuated, इदम् this word, उवाच said.

Summary

Clasping the great archer, the infatuated king, conferer of boons and flattering him (to the top of her bent), the queen said:

पदच्छेदः

इतिइति (अव्ययः)
देवीदेवी (१.१)
महेष्वासंमहत्–इष्वास (२.१)
परिगृह्याभिशस्यपरिगृह्य (√परि-ग्रह् + ल्यप्)–अभिशस्य (√अभि-शंस् + ल्यप्)
(अव्ययः)
ततःततस् (अव्ययः)
परम्परम् (अव्ययः)
उवाचेदंउवाच (√वच् लिट् प्र.पु. एक.)–इदम् (२.१)
वरदंवर–द (२.१)
काममोहितम्काम–मोहित (√मोहय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति दे वी हे ष्वा सं
रि गृ ह्याभिस्य
तःमु वा चे दं
दं का मोहि तम्