२.१०.३७

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।
जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥

अन्वयः

कौशल्यां वा even Kausalya, सुमित्रां वा or even Sumitra, श्रियमपि वा wealth, आत्मनः my own , जीवितं वा life also, त्यजेयम् shall give up, पितृवत्सलम् who is devoted to his father, रामं तु Rama, न will not leave.

Summary

I shall give up Kausalya or Sumitra or all my wealth or even my own life but I cannot leave Rama who is devoted to his father.

पदच्छेदः

कौसल्यांकौसल्या (२.१)
वावा (अव्ययः)
सुमित्रांसुमित्रा (२.१)
वावा (अव्ययः)
त्यजेयम्त्यजेयम् (√त्यज् विधिलिङ् उ.पु. )
अपिअपि (अव्ययः)
वावा (अव्ययः)
श्रियम्श्री (२.१)
जीवितंजीवित (२.१)
वात्मनोवा (अव्ययः)–आत्मन् (६.१)
रामंराम (२.१)
(अव्ययः)
त्व्तु (अव्ययः)
एवएव (अव्ययः)
पितृवत्सलम्पितृ–वत्सल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कौ ल्यां वासु मि त्रां वा
त्य जेपि वाश्रि यम्
जीवि तं वात्म नो रा मं
त्वेपितृत्स लम्