२.१०.३९

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ।
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥

अन्वयः

लोकः world, सूर्यं विना without the Sun, तिष्ठेत् can exist, सस्यम् crops, सलिलं विना वा without water, तु but, रामं विना without Rama, मम देहे my body, जीवितम् life, न तिष्ठेत् shall not exist.

Summary

This world can exist without the Sun or crops (can be grown) without water but without Rama, life would not exist in my body.

पदच्छेदः

तिष्ठेल्तिष्ठेत् (√स्था विधिलिङ् प्र.पु. एक.)
लोकोलोक (१.१)
विनाविना (अव्ययः)
सूर्यंसूर्य (२.१)
सस्यंसस्य (१.१)
वावा (अव्ययः)
सलिलंसलिल (२.१)
विनाविना (अव्ययः)
(अव्ययः)
तुतु (अव्ययः)
रामंराम (२.१)
विनाविना (अव्ययः)
देहेदेह (७.१)
तिष्ठेत्तिष्ठेत् (√स्था विधिलिङ् प्र.पु. एक.)
तुतु (अव्ययः)
मममद् (६.१)
जीवितम्जीवित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति ष्ठे ल्लो कोवि ना सू र्यं
स्यं वालि लंवि ना
तु रा मंवि ना दे हे
ति ष्ठेत्तु जीवि तम्