२.१०.८

सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः ।
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥

अन्वयः

भामिनि O lovely one कुशला: experts, सर्वश: in every way, अभितुष्टा: च completely satisfied too, मे my, वैद्या: सन्ति physicians are available, त्वाम् you, सुखिताम् करिष्यन्ति will restore your health, व्याधिम् ailment, आचक्ष्व you may tell.

Summary

O lovely one there are, to my best satisfaction, expert physicians in all branches (of medical science). They will restore your health. Tell me your ailment.

पदच्छेदः

सन्तिसन्ति (√अस् लट् प्र.पु. बहु.)
मेमद् (६.१)
कुशलाकुशल (१.३)
वैद्यावैद्य (१.३)
अभितुष्टाश्अभितुष्ट (√अभि-तुष् + क्त, १.३)
(अव्ययः)
सर्वशःसर्वशस् (अव्ययः)
सुखितांसुखित (२.१)
त्वांत्वद् (२.१)
करिष्यन्तिकरिष्यन्ति (√कृ लृट् प्र.पु. बहु.)
व्याधिम्व्याधि (२.१)
आचक्ष्वआचक्ष्व (√आ-चक्ष् लङ् म.पु. )
भामिनिभामिनी (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ति मेकु ला वै द्या
भि तु ष्टाश्चर्व शः
सुखि तां त्वां रि ष्यन्ति
व्याधि माक्ष्व भामिनि