२.१०.९

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।
कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥

अन्वयः

कस्य वा to whom, प्रियम् favour, ते by you, कार्यम् is to be done, केन वा by whom, विप्रियम् displeasure, कृतम् was done, क: who, अद्य now, प्रियम् favour, लभताम् let him obtain, को वा who, सुमहत् exceedingly great, अप्रियम् displeasure (shall obtain).

Summary

On whom do you wish to bestow favour? Who has caused you displeasure? To whom should I grant favour now? To whom should I cause great displeasure?

पदच्छेदः

कस्य (६.१)
वावा (अव्ययः)
तेत्वद् (४.१)
प्रियंप्रिय (१.१)
कार्यंकार्य (१.१)
केन (३.१)
वावा (अव्ययः)
विप्रियंविप्रिय (१.१)
कृतम्कृत (√कृ + क्त, १.१)
कः (१.१)
प्रियंप्रिय (२.१)
लभताम्लभताम् (√लभ् लोट् प्र.पु. एक.)
अद्यअद्य (अव्ययः)
को (१.१)
वावा (अव्ययः)
सुमहद्सु (अव्ययः)–महत् (२.१)
अप्रियम्अप्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य वा तेप्रि यं का र्यं
के वा विप्रि यंकृ तम्
कःप्रि यं ताद्य
को वासुप्रि यम्