२.१००.१४

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥

अन्वयः

इह in this world, अन्येन by one person, भुक्तम् something eaten, अन्यस्य to other man's, देहम् body, गच्छति यदि if it reaches, प्रवसतः living in a distant place, श्राद्धम् shraddha, दद्यात् may offer, तत् that one, पथि on the way, अशनम् न भवेत् will it not be food?

Summary

If something eaten by one in this world can enter the body of another, then a shraddha can be performed for a person who has set out on a distant journey. Will that offering turn into food for him on his way?

पदच्छेदः

यदियदि (अव्ययः)
भुक्तम्भुक्त (√भुज् + क्त, १.१)
इहान्येनइह (अव्ययः)–अन्य (३.१)
देहम्देह (१.१)
अन्यस्यअन्य (६.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
दद्यात्दद्यात् (√दा विधिलिङ् प्र.पु. एक.)
प्रवसतःप्रवसत् (√प्र-वस् + शतृ, ६.१)
श्राद्धंश्राद्ध (२.१)
(अव्ययः)
तत्तद् (१.१)
पथ्य्पथिन् (७.१)
अशनंअशन (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि भुक्तमि हा न्ये
दे न्यस्यच्छति
द्यात्प्र तः श्रा द्धं
त्पथ्य नं वेत्