२.१०१.१५

एकः पालयते लोकमेकः पालयते कुलम् ।
मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥

अन्वयः

एकः one, लोकम् this world, पालयते protects, एकः one, कुलम् family, पालयते protects, एकः one, निरये into the hell, मज्जति plunges, एकः one, स्वर्गे in heaven, महीयते is honoured.

Summary

One protects the world. Another runs his family. One plunges into hell. Another is honoured in heaven. (These are the fruits of truth and untruth).

पदच्छेदः

एकःएक (१.१)
पालयतेपालयते (√पालय् लट् प्र.पु. एक.)
लोकम्लोक (२.१)
एकःएक (१.१)
पालयतेपालयते (√पालय् लट् प्र.पु. एक.)
कुलम्कुल (२.१)
मज्जत्य्मज्जति (√मज्ज् लट् प्र.पु. एक.)
एकोएक (१.१)
हिहि (अव्ययः)
निरयनिरय (७.१)
एकःएक (१.१)
स्वर्गेस्वर्ग (७.१)
महीयतेमहीयते (√महीय् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कः पा ते लो
मे कः पा तेकु लम्
ज्ज त्ये कोहिनि
कः स्व र्गे ही ते