२.१०१.१८

असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥

अन्वयः

असत्यसन्धस्य सतः one who is inclined to untruth, चलस्य of a fickle man, अस्थिरचेतसः of an unsteady mind, देवाः gods, न प्रतीच्छन्ति will not accept, पितरः ancestors, इति thus, नः for us, श्रुतम् heard.

Summary

We have heard that the offerings of a man inclined to untruth, of an unstable and unsteady mind are accepted neither by the gods nor by the ancestors.

पदच्छेदः

असत्यसंधस्यअसत्य–संधा (६.१)
सतश्सत् (६.१)
चलस्यास्थिरचेतसःचल (६.१)–अस्थिर–चेतस् (६.१)
नैव (अव्ययः)–एव (अव्ययः)
देवादेव (१.३)
(अव्ययः)
पितरःपितृ (१.३)
प्रतीच्छन्तीतिप्रतीच्छन्ति (√प्रति-इष् लट् प्र.पु. बहु.)–इति (अव्ययः)
नःमद् (६.३)
श्रुतम्श्रुत (√श्रु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्य संस्य
श्च स्यास्थि चे सः
नै दे वापि रः
प्र ती च्छ न्तीति नःश्रु तम्