२.१०१.२०

क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।
क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥

अन्वयः

क्षुद्रैः by the mean, नृशंसैः by the cruel, लुब्धै: by the greedy, पापकर्मभिः by men of evil deeds, सेवितम् pursued, धर्मसंहितम् conforming to righteousness, अधर्मम् unrighteousness, क्षात्रं धर्मम् kshatriya code of condut, अहम् I, त्यक्षे renounce.

Summary

I renounce the socalled kshatriya code of conduct followed by the mean the cruel, the greedy and by men of evil deeds which is unrighteousness under the cloak of righteousness.

पदच्छेदः

क्षात्रंक्षात्र (२.१)
धर्मम्धर्म (२.१)
अहंमद् (१.१)
त्यक्ष्येत्यक्ष्ये (√त्यज् लृट् उ.पु. )
ह्य्हि (अव्ययः)
अधर्मंअधर्म (२.१)
धर्मसंहितम्धर्म–संहित (√सम्-धा + क्त, २.१)
क्षुद्रैर्क्षुद्र (३.३)
नृशंसैर्नृशंस (३.३)
लुब्धैश्लुब्ध (√लुभ् + क्त, ३.३)
(अव्ययः)
सेवितंसेवित (√सेव् + क्त, २.१)
पापकर्मभिःपाप–कर्मन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षा त्रंर्म हं त्य क्ष्ये
ह्य र्मंर्म संहि तम्
क्षु द्रौर्नृ शं सै र्लु ब्धैश्च
सेवि तं पार्म भिः