२.१०१.२४

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥

अन्वयः

अहम् I, इमं वनवासम् this dwelling in the forest, गुरौ to father, प्रतिज्ञाय having sworn, गुरोः father's, वचः words, हित्वा disregarding, भरतस्य Bharata's, वचः words, कथम् how, करिष्यामि shall I do?

Summary

Having sworn before my father that I would live in the forest, how can I act upon Bharata's request in disregard to my father's words?

पदच्छेदः

कथंकथम् (अव्ययः)
ह्य्हि (अव्ययः)
अहंमद् (१.१)
प्रतिज्ञायप्रतिज्ञाय (√प्रति-ज्ञा + ल्यप्)
वनवासम्वन–वास (२.१)
इमंइदम् (२.१)
गुरोःगुरु (६.१)
भरतस्यभरत (६.१)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
वचोवचस् (२.१)
हित्वाहित्वा (√हा + क्त्वा)
गुरोर्गुरु (६.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थंह्य हंप्र ति ज्ञा
वामि मंगु रोः
स्य रि ष्यामि
चो हि त्वागु रोर्व चः