२.१०१.२९

शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः ।
तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥

अन्वयः

देवराट् king of the gods (Indra), क्रतूनाम् sacrifices, शतम् hundred, अहृत्य having performed, त्रिदिवम् to heaven, गतः went, महर्षयः great sages, उग्राणि intenese, तपांसि mortifications, आस्थाय after resorting to, दिवम् heaven, याताः attained.

Summary

After performing a hundred sacrifices, king of the gods (Indra) obtained (dominion over) heaven. Great sages attained heaven after resorting to intense mortifications.

पदच्छेदः

शतंशत (२.१)
क्रतूनाम्क्रतु (६.३)
आहृत्यआहृत्य (√आ-हृ + ल्यप्)
देवराट्देवराज् (१.१)
त्रिदिवंत्रिदिव (२.१)
गतःगत (√गम् + क्त, १.१)
तपांस्य्तपस् (२.३)
उग्राणिउग्र (२.३)
चास्थाय (अव्ययः)–आस्थाय (√आ-स्था + ल्यप्)
दिवंदिव् (२.१)
यातायात (√या + क्त, १.३)
महर्षयःमहत्–ऋषि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंक्र तू ना मा हृत्य
दे राट्त्रिदि वं तः
पां स्यु ग्राणि चा स्था
दि वं या तार्ष यः