२.१०१.४

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥

अन्वयः

कुलीनम् highborn, अकुलीनं वा or base, वीरम् brave, पुरुषमानिनम् proud of his manliness, शुचिं वा pure or honest, यदि वा or if, अशुचिं impure or dishonest, चारित्रमेव character alone, व्याख्याति tells.

Summary

It is only the character that tells whether a man is highborn or not, brave or only proud of his manliness, honest or dishonest.

पदच्छेदः

कुलीनम्कुलीन (२.१)
अकुलीनंअकुलीन (२.१)
वावा (अव्ययः)
वीरंवीर (२.१)
पुरुषमानिनम्पुरुष–मानिन् (२.१)
चारित्रम्चारित्र (१.१)
एवएव (अव्ययः)
व्याख्यातिव्याख्याति (√व्या-ख्या लट् प्र.पु. एक.)
शुचिंशुचि (२.१)
वावा (अव्ययः)
यदियदि (अव्ययः)
वाशुचिम्वा (अव्ययः)–अशुचि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कु लीकु ली नं वा
वी रंपुरु मानि नम्
चा रित्र मे व्या ख्याति
शु चिं वादि वाशु चिम्