२.१०१.५

अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः ।
लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥

पदच्छेदः

अनार्यस्अनार्य (१.१)
त्व्तु (अव्ययः)
आर्यसंकाशःआर्य–संकाश (१.१)
शौचाद्धीनस्शौच (५.१)–हीन (√हा + क्त, १.१)
तथातथा (अव्ययः)
शुचिःशुचि (१.१)
लक्षण्यवद्लक्षण्य–वत् (अव्ययः)
अलक्षण्योअलक्षण्य (१.१)
दुःशीलःदुःशील (१.१)
शीलवान्शीलवत् (१.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना र्य स्त्वार्य सं का शः
शौ चा द्धीस्त थाशु चिः
क्षण्य क्ष ण्यो
दुः शी लः शी वानि