२.१०१.६

अधर्मं धर्मवेषेण यदीमं लोकसंकरम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥

पदच्छेदः

अधर्मंअधर्म (२.१)
धर्मवेषेणधर्म–वेष (३.१)
यदीमंयदि (अव्ययः)–इदम् (२.१)
लोकसंकरम्लोक–संकर (२.१)
अभिपत्स्येअभिपत्स्ये (√अभि-पद् लृट् उ.पु. )
शुभंशुभ (२.१)
हित्वाहित्वा (√हा + क्त्वा)
क्रियाविधिविवर्जितम्क्रिया–विधि–विवर्जित (√वि-वर्जय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्मंर्म वे षे
दी मं लो सं रम्
भि त्स्येशु भं हि त्वा
क्रि याविधिविर्जि तम्