२.१०१.७

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।
बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥

पदच्छेदः

कश् (१.१)
चेतयानःचेतयान (√चेतय् + शानच्, १.१)
पुरुषःपुरुष (१.१)
कार्याकार्यविचक्षणःकार्य–अकार्य–विचक्षण (१.१)
बहुबहु (२.१)
मंस्यतिमंस्यति (√मन् लृट् प्र.पु. एक.)
मांमद् (२.१)
लोकेलोक (७.१)
दुर्वृत्तंदुर्वृत्त (२.१)
लोकदूषणम्लोक–दूषण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चे या नःपुरु षः
का र्या कार्यविक्ष णः
हु मंस्यति मां लो के
दु र्वृ त्तं लो दू णम्