२.१०२.१५

तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥

अन्वयः

राजा the king, युद्धे in battle, तान् सर्वान् all of them, प्रतिव्यूह्य having engaged, प्रवासितः driven into exile, सः he, रम्ये in a delightful, शैलवरे on a tall mountain, अभिरतः contented, मुनिः sage, बभूव became.

Summary

Although king Asita engaged all of them in a battle, he was (defeated and) driven into exile. He retired to a delightful, tall mountain and lived a life of contentment of a sage.

पदच्छेदः

तांस्तद् (२.३)
तुतु (अव्ययः)
सर्वान्सर्व (२.३)
प्रतिव्यूह्यप्रतिव्यूह्य (√प्रतिवि-ऊह् + ल्यप्)
युद्धेयुद्ध (७.१)
राजाराजन् (१.१)
प्रवासितःप्रवासित (√प्र-वासय् + क्त, १.१)
तद् (१.१)
(अव्ययः)
शैलवरेशैलवर (७.१)
रम्येरम्य (७.१)
बभूवाभिरतोबभूव (√भू लिट् प्र.पु. एक.)–अभिरत (√अभि-रम् + क्त, १.१)
मुनिःमुनि (१.१)
द्वेद्वि (१.२)
चास्य (अव्ययः)–इदम् (६.१)
भार्येभार्या (१.२)
गर्भिण्यौगर्भिन् (१.२)
बभूवतुर्बभूवतुः (√भू लिट् प्र.पु. द्वि.)
इतिइति (अव्ययः)
श्रुतिःश्रुति (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तांस्तु र्वान्प्र ति व्यूह्य यु द्धे रा जा
प्र वासि तः शै रे म्ये
भू वाभि तोमु निः द्वे चास्य भा
र्ये र्भि ण्यौ भूतुरि तिश्रु तिः