२.१०२.२

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।
सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ॥

अन्वयः

सर्वम् all, सलिलम् एव आसीत् all this was water, यत्र where, पृथिवी the earth, निर्मिता was formed, ततः thereafter, स्वयंभूः the selfexistent, ब्रह्मा Brahma, दैवतैस्सह along with the gods, समभवत् came into existence.

Summary

At the beginning, all this was water from which the earth was created. Thereafter, the selfexistent Brahma along with the gods came into existence.

पदच्छेदः

इमांइदम् (२.१)
लोकसमुत्पत्तिंलोक–समुत्पत्ति (२.१)
लोकनाथलोकनाथ (८.१)
निबोधनिबोध (√नि-बुध् लोट् म.पु. )
मेमद् (६.१)
सर्वंसर्व (१.१)
सलिलम्सलिल (१.१)
एवासीत्एव (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
पृथिवीपृथिवी (१.१)
यत्रयत्र (अव्ययः)
निर्मितानिर्मित (√निः-मा + क्त, १.१)
ततःततस् (अव्ययः)
समभवद्समभवत् (√सम्-भू लङ् प्र.पु. एक.)
ब्रह्माब्रह्मन् (१.१)
स्वयम्भूर्स्वयम्भु (१.१)
दैवतैःदैवत (३.३)
सहसह (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मां लो मु त्प त्तिं लो ना
नि बो मे र्वंलि मे वा सी
त्पृथि वीत्र निर्मि ता तः
द्ब्र ह्मास्व म्भू र्दै तैः