२.१०२.२८

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥

पदच्छेदः

अजश्अज (१.१)
(अव्ययः)
सुव्रतश्सुव्रत (१.१)
चैव (अव्ययः)–एव (अव्ययः)
नाभागस्यनाभाग (६.१)
सुताव्सुत (१.२)
उभौउभ् (१.२)
अजस्यअज (६.१)
चैव (अव्ययः)–एव (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
राजाराजन् (१.१)
दशरथःदशरथ (१.१)
सुतःसुत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्च सुव्र श्चै
ना भास्यसु तावु भौ
स्य चै र्मा त्मा
रा जा थःसु तः