२.१०२.३१

स राघवाणां कुलधर्ममात्मनः; सनातनं नाद्य विहातुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं; प्रभूतराष्ट्रां पितृवन्महायशाः ॥

पदच्छेदः

तद् (१.१)
राघवाणांराघव (६.३)
कुलधर्मम्कुल–धर्म (२.१)
आत्मनःआत्मन् (६.१)
सनातनंसनातन (२.१)
नाद्य (अव्ययः)–अद्य (अव्ययः)
विहातुम्विहातुम् (√वि-हा + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
प्रभूतरत्नाम्प्रभूत–रत्न (२.१)
अनुशाधिअनुशाधि (√अनु-शास् लोट् म.पु. )
मेदिनींमेदिनी (२.१)
प्रभूतराष्ट्रांप्रभूत–राष्ट्र (२.१)
पितृवन्पितृ–वत् (अव्ययः)
महायशाःमहत्–यशस् (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
रा वा णांकुर्म मात्म नः
ना नं नाद्यवि हातुर्हसि
प्र भू त्नानु शाधि मेदि नीं
प्र भू रा ष्ट्रांपितृन्म हा शाः