२.१०३.२

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥

अन्वयः

काकुत्स्थ O Kakutstha, राघव Rama, जातस्य of one who is born, पुरुषस्य for a person, आचार्यश्चैव the preceptor, पिता the father, माता च the mother, त्रयः three, गुरवः भवन्ति become gurus.

Summary

Every man born has three preceptors. They are his teacher, father and mother.

पदच्छेदः

पुरुषस्येहपुरुष (६.१)–इह (अव्ययः)
जातस्यजात (√जन् + क्त, ६.१)
भवन्तिभवन्ति (√भू लट् प्र.पु. बहु.)
गुरवस्गुरु (१.३)
त्रयःत्रि (१.३)
आचार्यश्आचार्य (१.१)
चैव (अव्ययः)–एव (अव्ययः)
काकुत्स्थकाकुत्स्थ (८.१)
पितापितृ (१.१)
मातामातृ (१.१)
(अव्ययः)
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुरु स्ये जास्य
न्तिगुस्त्र यः
चा र्य श्चै का कुत्स्थ
पि ता मा ता रा