२.१०३.२४

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥

अन्वयः

अथ then, भरतः Bharata, उत्थाय having stood up, जलम् water, स्पृष्ट्वा having touched, वाक्यम् these words, अब्रवीत् said, परिषदः O men of the assembly, मन्त्रिणः O counsellors, तथा also, श्रेणयः O guildsmen, मे me, श्रुण्वन्तु listen.

Summary

Then Bharata stood up and performed achamana (sipping of water) and said 'let the assembly of learned men, counsellors and guildsmen hear me'.

पदच्छेदः

अथोत्थायअथ (अव्ययः)–उत्थाय (√उत्-स्था + ल्यप्)
जलंजल (२.१)
स्पृष्ट्वास्पृष्ट्वा (√स्पृश् + क्त्वा)
भरतोभरत (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
शृण्वन्तुशृण्वन्तु (√श्रु लोट् प्र.पु. बहु.)
मेमद् (६.१)
परिषदोपरिषद् (१.३)
मन्त्रिणःमन्त्रिन् (१.३)
श्रेणयस्श्रेणि (१.३)
तथातथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थो त्था लं स्पृ ष्ट्वा
तो वाक्यब्र वीत्
शृ ण्वन्तु मेरि दो
न्त्रि णः श्रेस्त था