२.१०३.२६

यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः ।
अहमेव निवत्स्यामि चतुर्दश वने समाः ॥

अन्वयः

अवश्यम् absolutely, वस्तव्यं यदि if it is essential to live in the forest, पितुः father's, वचः words, कर्तव्यं च must be done, अहमेव I myself, चतुर्दश समाः fourteen years, वने in the forest, निवत्स्यामि I will reside.

Summary

If it is absolutely essential to live in the forest in accordance with the command of my father, I myself shall also dwell in the forest for fourteen years.

पदच्छेदः

यदियदि (अव्ययः)
त्व्तु (अव्ययः)
अवश्यंअवश्यम् (अव्ययः)
वस्तव्यंवस्तव्य (√वस् + कृत्, १.१)
कर्तव्यंकर्तव्य (√कृ + कृत्, १.१)
(अव्ययः)
पितुर्पितृ (६.१)
वचःवचस् (१.१)
अहम्मद् (१.१)
एवएव (अव्ययः)
निवत्स्यामिनिवत्स्यामि (√नि-वस् लृट् उ.पु. )
चतुर्दशचतुर्दशन् (२.१)
वनेवन (७.१)
समाःसमा (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दित्व श्यं स्त व्यं
र्त व्यंपि तुर्व चः
मेनि त्स्यामि
तुर्द ने माः