२.१०३.३१

अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः ।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥

अन्वयः

वनात् from the forest, पुनः again, प्रत्यागतः when returned, धर्मशीलेन of virtuous conduct, अनेन भ्रात्रा सह along with this brother, पृथिव्याः of the earth, उत्तमः supreme, पतिः lord, भविष्यामि I shall become.

Summary

On returning from the forest, I shall become the supreme lord of this earth along with this virtuous brother.

पदच्छेदः

अनेनइदम् (३.१)
धर्मशीलेनधर्म–शील (३.१)
वनात्वन (५.१)
प्रत्यागतःप्रत्यागत (√प्रत्या-गम् + क्त, १.१)
पुनःपुनर् (अव्ययः)
भ्रात्राभ्रातृ (३.१)
सहसह (अव्ययः)
भविष्यामिभविष्यामि (√भू लृट् उ.पु. )
पृथिव्याःपृथिवी (६.१)
पतिर्पति (१.१)
उत्तमःउत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नेर्म शी ले
ना त्प्र त्या तःपु नः
भ्रा त्रा वि ष्यामि
पृ थि व्याःति रुत्त मः