२.१०३.४

स तेऽहं पितुराचार्यस्तव चैव परंतप ।
मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥

अन्वयः

सः अहम् that I, ते पितुः of your father, तव चैव and also your, आचार्यः preceptor, परन्तप O destroyer of foes, त्वम् you, मम my, वचनम् order, कुर्वन् carrying out, सताम् of virtuous men's, गतिम् path, नातिवर्तेः you will not transgress.

Summary

I was preceptor to your father and also to you. O destroyer of foes, by following my words, you will not transgress the path of the virtuous.

पदच्छेदः

तद् (१.१)
तेत्वद् (६.१)
ऽहंमद् (१.१)
पितुर्पितृ (६.१)
आचार्यस्आचार्य (१.१)
तवत्वद् (६.१)
चैव (अव्ययः)–एव (अव्ययः)
परंतपपरंतप (८.१)
मममद् (६.१)
त्वंत्वद् (१.१)
वचनंवचन (२.१)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
नातिवर्तेः (अव्ययः)–अतिवर्तेः (√अति-वृत् विधिलिङ् म.पु. )
सतांसत् (६.३)
गतिम्गति (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ऽहंपितु रा चार्य
स्त चै रं
त्वं नं कुर्व
न्नाति र्तेः तां तिम्