२.१०३.६

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् ।
अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् ॥

अन्वयः

वृद्धायाः of an aged woman, धर्मशीलायाः of a righteousminded woman, मातुः of the mother, अवर्तितुम् not to attend her, नार्हसि is not proper, अस्याः her, वचनम् words, कुर्वन् obeying, सताम् of the virtuous, गतिम् path, नातिवर्तेः you will not deviate.

Summary

Here is your aged and righteous mother. It does not behove you to deny your service to her. By obeying her, you will never deviate from the path of the virtuous.

पदच्छेदः

वृद्धायावृद्ध (५.१)
धर्मशीलायाधर्म–शील (५.१)
मातुर्मातृ (५.१)
नार्हस्य् (अव्ययः)–अर्हसि (√अर्ह् लट् म.पु. )
अवर्तितुम्अवर्तितुम् (अव्ययः)
अस्यास्इदम् (६.१)
तुतु (अव्ययः)
वचनंवचन (२.१)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
नातिवर्तेः (अव्ययः)–अतिवर्तेः (√अति-वृत् विधिलिङ् म.पु. )
सतांसत् (६.३)
गतिम्गति (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वृ द्धा यार्म शी ला या
मा तु र्ना र्हस्यर्ति तुम्
स्यास्तु नं कुर्व
न्नाति र्तेः तां तिम्