२.१०४.११

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा ॥

अन्वयः

अहम् I, एकस्तु am alone, सुमहत् this vast, राज्यम् kingdom, रक्षितुम् to protect, रक्तान् loyal पौरजानपदान् inhabitants of the town and villages, रञ्जयितुम् to please, नोत्सहे I do not venture.

Summary

I do not venture to protect this kingdom all by myself and keep the inhabitants of the towns and villages who are loyal to you pleased.

पदच्छेदः

रक्षितुंरक्षितुम् (√रक्ष् + तुमुन्)
सुमहद्सु (अव्ययः)–महत् (२.१)
राज्यम्राज्य (२.१)
अहम्मद् (१.१)
एकस्एक (१.१)
तुतु (अव्ययः)
नोत्सहे (अव्ययः)–उत्सहे (√उत्-सह् लट् उ.पु. )
पौरजानपदांश्पौर–जानपद (२.३)
चापि (अव्ययः)–अपि (अव्ययः)
रक्तान्रक्त (√रञ्ज् + क्त, २.३)
रञ्जयितुंरञ्जयितुम् (√रञ्जय् + तुमुन्)
तथातथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षि तुंसु द्राज्य
मेस्तु नोत्स हे
पौ जा दां श्चापि
क्ता न्रञ्जयि तुं था