२.१०४.१२

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ॥

अन्वयः

नः our, ज्ञातयश्च relatives, योधाश्च warriors, मित्राणि friends, सुहृदश्च wellwishers, त्वामेव you alone, कर्षकाः farmers, पर्जन्यमिव like rainbearing cloud, प्रतिवीक्षन्ते are longing.

Summary

All our relatives, warriors, friends and wellwishers long to see you like farmers yearn for the raincloud.

पदच्छेदः

ज्ञातयश्ज्ञाति (१.३)
(अव्ययः)
हिहि (अव्ययः)
योधाश्योध (१.३)
(अव्ययः)
मित्राणिमित्र (१.३)
सुहृदश्सुहृद् (१.३)
(अव्ययः)
नःमद् (६.३)
त्वाम्त्वद् (२.१)
एवएव (अव्ययः)
प्रतिकाङ्क्षन्तेप्रतिकाङ्क्षन्ते (√प्रति-काङ्क्ष् लट् प्र.पु. बहु.)
पर्जन्यम्पर्जन्य (२.१)
इवइव (अव्ययः)
कर्षकाःकर्षक (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञाश्चहि यो धाश्च
मि त्राणिसुहृश्च नः
त्वा मेप्रति का ङ्क्ष न्ते
र्जन्यमिर्ष काः