२.१०४.१६

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥

अन्वयः

तातः O child, स्वजा innate, वैनयिकी च though training (received from a preceptor), या बुद्धि: such wisdom, त्वाम् you, आगता reached, पृथिवीम् to the earth, रक्षितुम् अपि even to protect, भृशम् perfectly, उत्सहसे you are capable.

Summary

O child, this wisdom of yours is both inborn and imbibed through training. With this, you are perfectly capable of protecting the earth.

पदच्छेदः

आगताआगत (√आ-गम् + क्त, १.१)
त्वाम्त्वद् (२.१)
इयंइदम् (१.१)
बुद्धिःबुद्धि (१.१)
स्वजास्वज (१.१)
वैनयिकीवैनयिक (१.१)
(अव्ययः)
यायद् (१.१)
भृशम्भृशम् (अव्ययः)
उत्सहसेउत्सहसे (√उत्-सह् लट् म.पु. )
ताततात (८.१)
रक्षितुंरक्षितुम् (√रक्ष् + तुमुन्)
पृथिवीम्पृथिवी (२.१)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता त्वामि यं बु द्धिः
स्व जा वैयि की या
भृ मुत्स से ता
क्षि तुंपृथि वीपि