२.१०४.१८

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ।
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः ॥

अन्वयः

चन्द्रात् from the Moon, लक्ष्मीः splendour, अपेयाद्वा might withdraw, हिमवान् Himavat mountain, हिमम् snow, त्यजेद्वा might abandon, सागरः ocean, वेलाम् its shores, अतीयात् might overstep, अहम् I, पितुः to father, प्रतिज्ञाम् promise, न shall not forsake.

Summary

The Moon might lose its splendour, snow might abandon the Himavat mountain, the ocean might overstep its shores, but I shall not forsake the promise made to my father.

पदच्छेदः

लक्ष्मीश्लक्ष्मी (१.१)
चन्द्राद्चन्द्र (५.१)
अपेयाद्अपेयात् (√अप-इ विधिलिङ् प्र.पु. एक.)
वावा (अव्ययः)
हिमवान्हिमवन्त् (१.१)
वावा (अव्ययः)
हिमंहिम (२.१)
त्यजेत्त्यजेत् (√त्यज् विधिलिङ् प्र.पु. एक.)
अतीयात्अतीयात् (√अति-इ विधिलिङ् प्र.पु. एक.)
सागरोसागर (१.१)
वेलांवेला (२.१)
(अव्ययः)
प्रतिज्ञाम्प्रतिज्ञा (२.१)
अहंमद् (१.१)
पितुःपितृ (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्मी श्च न्द्रा पे या द्वा
हि वा न्वाहि मंत्य जेत्
ती या त्सा रो वे लां
प्र ति ज्ञा हंपि तुः