२.१०४.१९

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।
न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥

अन्वयः

तात child, कामाद्वा either out of affection, लोभाद्वा or out of covetousness, मात्रा by your mother, तुभ्यम् for your sake, इदम् this, कृतम् was done, तत् that, मनसि in your mind, न कर्तव्यम् should not be taken seriously, मातृवत् as to one's own mother, वर्तिव्यम् you should conduct.

Summary

Dear brother, whether out of affection or greed, your mother has done this for your sake. It should not agitate your mind. You should conduct yourself as one should towards one's mother.

पदच्छेदः

कामाद्काम (५.१)
वावा (अव्ययः)
ताततात (८.१)
लोभाद्लोभ (५.१)
वावा (अव्ययः)
मात्रामातृ (३.१)
तुभ्यम्त्वद् (४.१)
इदंइदम् (१.१)
कृतम्कृत (√कृ + क्त, १.१)
(अव्ययः)
तन्तद् (१.१)
मनसिमनस् (७.१)
कर्तव्यंकर्तव्य (√कृ + कृत्, १.१)
वर्तितव्यंवर्तितव्य (√वृत् + कृत्, १.१)
(अव्ययः)
मातृवत्मातृ–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का मा द्वा ता लो भा द्वा
मा त्रा तुभ्यमि दंकृ तम्
न्मसि र्त व्यं
र्ति व्यं मातृ वत्