२.१०४.२२

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत्सुमहातेजा भरताय महात्मने ॥

अन्वयः

नरव्याघ्रः the best of men, सुमहातेजाः of great brilliance, सः that Rama, पादुके sandals, अधिरुह्य putting on, अवरुह्य च putting off, महात्मने to the magnanimous, भरताय to Bharata, प्रायच्छत् gave.

Summary

Rama, the best of men, one with great brilliance, put on and then put off the sandals and presented them to the magnanimous Bharata.

पदच्छेदः

सोतद् (१.१)
ऽधिरुह्यअधिरुह्य (√अधि-रुह् + ल्यप्)
नरव्याघ्रःनर–व्याघ्र (१.१)
पादुकेपादुका (२.२)
ह्य्हि (अव्ययः)
अवरुह्यअवरुह्य (√अव-रुह् + ल्यप्)
(अव्ययः)
प्रायच्छत्प्रायच्छत् (√प्र-यम् लङ् प्र.पु. एक.)
सुमहातेजासु (अव्ययः)–महत्–तेजस् (१.१)
भरतायभरत (४.१)
महात्मनेमहात्मन् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽधि रुह्य व्या घ्रः
पादु केह्य रुह्य
प्रा च्छत्सु हा ते जा
ता हात्म ने