२.१०४.२३

स पादुके ते भरतः प्रतापवा;न्स्वलंकृते संपरिगृह्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं; चकार चैवोत्तमनागमूर्धनि ॥

अन्वयः

प्रतापवान् the valiant, धर्मवित् knower of righteousness, सः भरतः that Bharata, स्वलङ्कृते welldecorated, ते those, पादुके sandals, सम्परिपूज्य having worshipped, राघवम् to Rama, प्रदक्षिणम् circumambulation, चकार performed, ते those sandals, उत्तमनागमूर्धनि atop the best of elephants, चकार made.

Summary

The valiant and righteous Bharata, worshipped the welldecorated sandals and after circumambulating Rama reverentially placed them atop the best of elephants.

पदच्छेदः

तद् (१.१)
पादुकेपादुका (२.२)
तेतद् (२.२)
भरतःभरत (१.१)
प्रतापवान्प्रतापवत् (१.१)
स्वलंकृतेसु (अव्ययः)–अलंकृत (√अलम्-कृ + क्त, २.२)
सम्परिगृह्यसम्परिगृह्य (√सम्परि-ग्रह् + ल्यप्)
धर्मवित्धर्म–विद् (१.१)
प्रदक्षिणंप्रदक्षिण (२.१)
चैव (अव्ययः)–एव (अव्ययः)
चकारचकार (√कृ लिट् प्र.पु. एक.)
राघवंराघव (२.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
चैवोत्तमनागमूर्धनि (अव्ययः)–एव (अव्ययः)–उत्तम–नाग–मूर्धन् (७.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
पादु के ते तःप्र ता वा
न्स्व लंकृ ते संरि गृह्यर्म वित्
प्रक्षि णं चै का रा वं
का चै वोत्त ना मूर्धनि