२.१०४.५

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥

अन्वयः

कुले जात O born in an illustrious race, महाप्राज्ञ O highly sagacious one, महावृत्त of virtuous conduct, महायशः O man of great renown, ते your, पितरम् father, अवेक्षसे यदि if you look at your father, रामस्य Rama's, वाक्यम् words, ग्राह्यम् have to be accepted.

Summary

O Bharata, born in an illustrious race, highly sagacious and a man of virtuous conduct and great renown, accept Rama's proposal if you have any regard for your father.

पदच्छेदः

कुलेकुल (७.१)
जातजात (√जन् + क्त, ८.१)
महाप्राज्ञमहत्–प्राज्ञ (८.१)
महावृत्तमहत्–वृत्त (८.१)
महायशःमहत्–यशस् (८.१)
ग्राह्यंग्राह्य (√ग्रह् + कृत्, १.१)
रामस्यराम (६.१)
वाक्यंवाक्य (१.१)
तेत्वद् (६.१)
पितरंपितृ (२.१)
यद्य्यदि (अव्ययः)
अवेक्षसेअवेक्षसे (√अव-ईक्ष् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कु ले जा हा प्राज्ञ
हा वृत्त हा शः
ग्रा ह्यं रास्य वा क्यं ते
पि रंद्य वेक्ष से