२.१०४.६

सदानृणमिमं रामं वयमिच्छामहे पितुः ।
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥

अन्वयः

वयम् we, इमं रामम् this Rama, सदा always, पितुः as regards his father, अनृणम् free from debt, इच्छामहे we desire, दशरथः Dasaratha, कैकेय्याः to Kaikeyi, अनृणत्वाच्च by discharging his obligation, स्वर्गम् heaven, गतः ascended.

Summary

We always desire that Rama should discharge his debt to his father. Dasaratha, who by redeeming himself of his obligation to Kaikeyi, had ascended heaven.

पदच्छेदः

सदानृणम्सदा (अव्ययः)–अनृण (२.१)
इमंइदम् (२.१)
रामंराम (२.१)
वयम्मद् (१.३)
इच्छामहेइच्छामहे (√इष् लट् उ.पु. द्वि.)
पितुःपितृ (६.१)
अनृणत्वाच्चअनृण–त्व (५.१)–च (अव्ययः)
कैकेय्याःकैकेयी (६.१)
स्वर्गंस्वर्ग (२.१)
दशरथोदशरथ (१.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दानृमि मं रा मं
मि च्छा हेपि तुः
नृ त्वाच्च कै के य्याः
स्व र्गं थो तः