२.१०४.७

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः ॥

अन्वयः

तदा then, समहर्षयः with great rishis, गन्धर्वाः gandharvas, राजर्षयश्चैव and royal sages, एतावत् upto this extent, वचनम् word, उक्त्वा having spoken, सर्वे all, स्वां स्वाम् to their respective, गतिम् abode, गताः went.

Summary

Then the great rishis, gandharvas and royal sages having said this, returned to their respective abodes.

पदच्छेदः

एतावद्एतावत् (२.१)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
वचनंवचन (२.१)
गन्धर्वाःगन्धर्व (१.३)
समहर्षयः (अव्ययः)–महत्–ऋषि (१.३)
राजर्षयश्राजर्षि (१.३)
चैव (अव्ययः)–एव (अव्ययः)
तथातथा (अव्ययः)
सर्वेसर्व (१.३)
स्वांस्व (२.१)
स्वांस्व (२.१)
गतिंगति (२.१)
गताःगत (√गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता दु क्त्वा नं
न्ध र्वाःर्ष यः
रार्ष श्चै था
र्वे स्वां स्वां तिं ताः