२.१०५.१

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥

अन्वयः

ततः thereafter, तदा then, भरतः Bharata, पादुके sandals, शिरसि upon his head, कृत्वा having placed, हृष्टः in delight, शत्रुघ्नेन with Satrughna, समन्वितः accompanied by, रथम् chariot, आरुरोह boarded.

Summary

Then Bharata accompanied by Satrughna, placing the sandals on his head in delight, boarded the chariot.

पदच्छेदः

ततःततस् (अव्ययः)
शिरसिशिरस् (७.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
तुतु (अव्ययः)
पादुकेपादुका (२.२)
भरतस्भरत (१.१)
तदातदा (अव्ययः)
आरुरोहआरुरोह (√आ-रुह् लिट् प्र.पु. एक.)
रथंरथ (२.१)
हृष्टःहृष्ट (√हृष् + क्त, १.१)
शत्रुघ्नेनशत्रुघ्न (३.१)
समन्वितःसमन्वित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःशिसि कृ त्वातु
पादु केस्त दा
रु रो थं हृ ष्टः
त्रु घ्नेन्वि तः