२.१०५.२

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥

अन्वयः

वसिष्ठः Vasistha, वामदेवश्च Vamadeva, दृढव्रतः of rigid penance, जाबालिश्च Jabali, मन्त्रपूजिताः honoured for their counselling, सर्वे मन्त्रिणः all the ministers, अग्रतः in the forefront, प्रययुः proceeded.

Summary

Vasishta, Vamadeva, Jabali of rigorous penance and all the ministers honoured for their counsel proceeded ahead.

पदच्छेदः

वसिष्ठोवसिष्ठ (१.१)
वामदेवश्वामदेव (१.१)
(अव्ययः)
जाबालिश्जाबालि (१.१)
(अव्ययः)
दृढव्रतःदृढ–व्रत (१.१)
अग्रतःअग्रतस् (अव्ययः)
प्रययुःप्रययुः (√प्र-या लिट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
मन्त्रिणोमन्त्रिन् (१.३)
मन्त्रपूजिताःमन्त्र–पूजित (√पूजय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि ष्ठो वा देश्च
जा बा लिश्चदृव्र तः
ग्र तःप्र युः र्वे
न्त्रि णोन्त्र पूजि ताः