२.१०५.१०

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम ॥

अन्वयः

चतुर्दश वर्षाणि हि fourteen years indeed, मम पितुः to my father, या प्रतिज्ञा that promise, पितुः of my father, तां प्रतिज्ञाम् एव that promise only, तत्त्वतः truly, पालयिष्यामि shall honour.

Summary

In sooth, I shall honour the words of promise given by my father and live in the forest for fourteen years, as promised.

पदच्छेदः

पितुःपितृ (६.१)
प्रतिज्ञांप्रतिज्ञा (२.१)
ताम्तद् (२.१)
एवएव (अव्ययः)
पालयिष्यामिपालयिष्यामि (√पालय् लृट् उ.पु. )
तत्त्वतःतत्त्व (५.१)
चतुर्दशचतुर्दशन् (२.१)
हिहि (अव्ययः)
वर्षाणिवर्ष (२.३)
यायद् (१.१)
प्रतिज्ञाप्रतिज्ञा (१.१)
पितुर्पितृ (६.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तुःप्र ति ज्ञां ता मे
पा यि ष्यामित्त्व तः
तुर्दहि र्षाणि
प्र ति ज्ञापि तुर्म