२.१०५.३

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥

अन्वयः

तदा then, ते they, चित्रकूटं महागिरिम् mighty mountain, Chitrakuta, प्रदक्षिणम् circumambulation, कुर्वाणाः doings, प्राङ्मुखाः facing eastward, मन्दाकिनीम् river Mandakini, रम्याम् charming, नदीम् to river, ययुः proceeded.

Summary

All of them circumambulated the mighty mountain Chitrakuta and proceeded east towards the charming river Mandakini.

पदच्छेदः

मन्दाकिनींमन्दाकिनी (२.१)
नदींनदी (२.१)
रम्यांरम्य (२.१)
प्राङ्मुखास्प्राङ्मुख (१.३)
तेतद् (१.३)
ययुस्ययुः (√या लिट् प्र.पु. बहु.)
तदातदा (अव्ययः)
प्रदक्षिणंप्रदक्षिण (२.१)
(अव्ययः)
कुर्वाणाश्कुर्वाण (√कृ + शानच्, १.३)
चित्रकूटंचित्रकूट (२.१)
महागिरिम्महत्–गिरि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्दाकि नीं दीं म्यां
प्राङ्मु खा स्ते युस्त दा
प्रक्षि णं कु र्वा णा
श्चित्र कू टं हागि रिम्