२.१०५.२१

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥

अन्वयः

ततः thereafter, ते सर्वे all of them, दिव्याम् divine, ऊर्मिमालिनीम् wreathed with waves, यमुनां नदीम् river Yamuna, तीर्त्वा having crossed, शुभजलाम् of auspicious waters of, तां गङ्गां that Ganga, नदीम् river, पुनः again, ददृशुः beheld.

Summary

Thereafter, all of them crossed the divine river Yamuna wreathed in waves and, beheld the Ganga of sacred waters once again.

पदच्छेदः

ततस्ततस् (अव्ययः)
तेतद् (१.३)
यमुनांयमुना (२.१)
दिव्यांदिव्य (२.१)
नदींनदी (२.१)
तीर्त्वोर्मिमालिनीम्तीर्त्वा (√तृ + क्त्वा)–ऊर्मि–मालिन् (२.१)
ददृशुस्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
तांतद् (२.१)
पुनःपुनर् (अव्ययः)
सर्वेसर्व (१.३)
गङ्गांगङ्गा (२.१)
शिवजलांशिव–जल (२.१)
नदीम्नदी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तेमु नां दि व्यां
दीं ती र्त्वोर्मि मालि नीम्
दृ शु स्तांपु नः र्वे
ङ्गांशि लां दीम्