२.१०६.१६

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥

अन्वयः

विपुलाम् extensive, वितताम् stretched, युक्तपाशाम् attached with nooses, तरस्विनाम् of a powerful man, बाणैः with arrows, विनिष्कृत्ताम् severed, आयुधात् from the weapon, भूमौ on the ground, पतिताम् fallen, ज्यामिव like a bowstring.

पदच्छेदः

विपुलांविपुल (२.१)
विततांवितत (√वि-तन् + क्त, २.१)
चैव (अव्ययः)–एव (अव्ययः)
युक्तपाशांयुक्त (√युज् + क्त)–पाश (२.१)
तरस्विनाम्तरस्विन् (६.३)
भूमौभूमि (७.१)
बाणैर्बाण (३.३)
विनिष्कृत्तांविनिष्कृत्त (√विनिः-कृत् + क्त, २.१)
पतितांपतित (√पत् + क्त, २.१)
ज्याम्ज्या (२.१)
इवायुधात्इव (अव्ययः)–आयुध (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विपु लांवि तां चै
युक्त पा शांस्वि नाम्
भू मौ बा णैर्वि नि ष्कृ त्तां
ति तां ज्यामि वायु धात्