२.१०६.२४

एवं बहुविधं जल्पन्विवेश वसतिं पितुः ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥

अन्वयः

एवम् thus, बहुविधम् in several ways, जल्पन् talking, तेन by that, नरेन्द्रेण by the king, हीनाम् bereft of, सिंहहीनाम् without a lion, गुहामिव like a cave, पितुः father's, वसतिम् residence, विवेश entered.

Summary

Thus mourning in several ways, Bharata entered his fathers' palace (now) bereft of the king like a cave without the lion.

पदच्छेदः

एवंएवम् (अव्ययः)
बहुविधंबहुविध (२.१)
जल्पन्जल्पत् (√जल्प् + शतृ, १.१)
विवेशविवेश (√विश् लिट् प्र.पु. एक.)
वसतिंवसति (२.१)
पितुःपितृ (६.१)
तेनतद् (३.१)
हीनांहीन (√हा + क्त, २.१)
नरेन्द्रेणनरेन्द्र (३.१)
सिंहहीनांसिंह–हीन (√हा + क्त, २.१)
गुहाम्गुहा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंहुवि धंल्प
न्वि वे तिंपि तुः
ते ही नां रे न्द्रे
सिं ही नांगु हामि