२.१०६.२३

तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः ।
संपतद्भिरयोध्यायां न विभान्ति महापथाः ॥

अन्वयः

अयोध्यायाम् in Ayodhya, महापथाः highways, चारुवेषैः by those elegantly attired, उन्नतगामिभिः with their majestic gait, सम्पतद्भिः by those coming together in groups, तरुणैः young men, नरैः men, नाभिभान्ति is not shining.

Summary

The highways of Ayodhya thronged with groups of elegantly attired young men or adults with their majestic gait, do not shine.

पदच्छेदः

तरुणैश्तरुण (३.३)
चारुवेषैश्चारु–वेष (३.३)
(अव्ययः)
नरैर्नर (३.३)
उन्नतगामिभिःउन्नत (√उत्-नम् + क्त)–गामिन् (३.३)
संपतद्भिर्संपतत् (√सम्-पत् + शतृ, ३.३)
अयोध्यायांअयोध्या (७.१)
(अव्ययः)
विभान्तिविभान्ति (√वि-भा लट् प्र.पु. बहु.)
महापथाःमहापथ (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु णै श्चारु वे षैश्च
रै रुन्न गामि भिः
संद्भि यो ध्या यां
वि भान्ति हा थाः