२.१०७.१२

रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥

अन्वयः

भ्रातृवत्सलः deeply attched to his brother, धर्मात्मा a righteous man, सः भरतः that Bharata, रथस्थः while riding on the chariot, पादुके sandals, शिरसि on head, आदाय bearing, तूर्णम् speedily, नन्दिग्रामम् Nandigrama, ययौ went.

Summary

Righteous Bharata who was deeply attached to his brother proceeded speedily towards Nandigrama on the chariot bearing the sandals of Rama on his head.

पदच्छेदः

रथस्थःरथ–स्थ (१.१)
तद् (१.१)
तुतु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
भरतोभरत (१.१)
भ्रातृवत्सलःभ्रातृ–वत्सल (१.१)
नन्दिग्रामंनन्दिग्राम (२.१)
ययौययौ (√या लिट् प्र.पु. एक.)
तूर्णंतूर्णम् (अव्ययः)
शिरस्य्शिरस् (७.१)
आधायआधाय (√आ-धा + ल्यप्)
पादुकेपादुका (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्थःतु र्मा त्मा
तो भ्रातृत्स लः
न्दि ग्रा मं यौ तू र्णं
शि स्या धा पादु के