२.१०७.१४

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥

अन्वयः

एतत् राज्यम् all this kingdom, भ्रात्रा by my brother, स्वयम् by himself, सन्नयासवत् like a trust, मम to me, दत्तम् given, योगक्षेमवहे prosperity and security, हेमभूषिते decorated with gold, इमे पादुके च these sandals also bestowed.

Summary

My brother gave me this kingdom as a trust. He gave me the sandals decorated with gold for securing the prosperity and security (of the kingdom).

पदच्छेदः

एतद्एतद् (१.१)
राज्यंराज्य (१.१)
मममद् (६.१)
भ्रात्राभ्रातृ (३.१)
दत्तंदत्त (√दा + क्त, १.१)
संन्यासवत्संन्यास–वत् (अव्ययः)
स्वयम्स्वयम् (अव्ययः)
योगक्षेमवहेयोगक्षेम–वह (२.२)
चेमे (अव्ययः)–इदम् (२.२)
पादुकेपादुका (२.२)
हेमभूषितेहेमन्–भूषित (√भूषय् + क्त, २.२)
तम्तद् (२.१)
इमंइदम् (२.१)
पालयिष्यामिपालयिष्यामि (√पालय् लृट् उ.पु. )
राघवागमनंराघव–आगमन (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
द्रा ज्यं भ्रा त्रा त्तं सं न्या
त्स्व यम् यो क्षे हे चे मे
पादु के हे भूषि तेमि मं पा
यि ष्यामि रा वा नंप्रति