२.१०७.२

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः ।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥

अन्वयः

अद्य now, नन्दिग्रामम् to Nandigrama, गमिष्यामि I am going, वः you, सर्वान् all, आमन्त्रये seeking leave of, तत्र there, राघवं विना without Rama, इदम् this, सर्वम् all, दुःखम् grief, सहिष्ये I will endure.

Summary

I take leave of all of you. I am going to Nandigrama where I shall keep company with grief on account of Rama's absence.

पदच्छेदः

नन्दिग्रामंनन्दिग्राम (२.१)
गमिष्यामिगमिष्यामि (√गम् लृट् उ.पु. )
सर्वान्सर्व (२.३)
आमन्त्रयेआमन्त्रये (√आ-मन्त्रय् लट् उ.पु. )
ऽद्यअद्य (अव्ययः)
वःत्वद् (२.३)
तत्रतत्र (अव्ययः)
दुःखम्दुःख (२.१)
इदंइदम् (२.१)
सर्वंसर्व (२.१)
सहिष्येसहिष्ये (√सह् लृट् उ.पु. )
राघवंराघव (२.१)
विनाविना (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्दि ग्रा मं मि ष्यामि
र्वा नान्त्र येऽद्य वः
त्र दुःमि दं र्वं
हि ष्ये रा वंवि ना